Friday, 31 May 2013

||शिवप्रातःस्मरणस्तोत्रम् ||

||शिवप्रातःस्मरणस्तोत्रम् ||

ॐ अथ शिवप्रातःस्मरणस्तोत्रम् |

प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् |
खट्ट्वङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ||१||

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् |
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ||२||

प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरूषं महान्तम् |
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ||३

कर्पूरगौरं करुणावतार संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्द भवं भवानीसहितं नमामि ॥

ॐ नमः शिवाय !ॐ नमः शिवाय !ॐ नमः शिवाय !ॐ नमः शिवाय ! ॐ नमः शिवाय !

posted by 

No comments:

Post a Comment